Pages

Showing posts with label संस्कृतकृतयः. Show all posts
Showing posts with label संस्कृतकृतयः. Show all posts

Sunday, May 30, 2010

सर्वं ब्रह्म मयम्



तमिळ भाषायाः सुप्रसिद्ध कवेः श्री सुब्रह्मण्य भारती महाशयस्य कवितायाः एकस्याः मया कृतं अनुवादनं अत्र दीयते। दोषाः भवेयुः, क्षम्यताम्, सम्शोधनं क्रियतां च।

कथय, हरि नाम पुरुषः कुत्रास्ति, कथय माम् इति अगर्जत् हिरण्यासुरः। सत्पुत्रः प्रत्यवदत्, स्तम्भे अस्ति नारायणः, तृणे अपि सः अस्तिइति। तादृशं वस्तु नास्ति यस्मिऩ् सर्वशक्तिमाऩ् ईश्वरो न विद्यते, यस्मिऩ् तस्य महाशक्तिः न आविर्भूता। दुःखं नास्ति, खेदो नास्ति, नास्ति व्यथा कदापि च, मन्यसे यदि सर्वत्र व्याप्तो नारायणो हरिः।

श्रुणु रे शिष्य, गर्दभं कंचित् दृष्ट्वा, नीचसूकरं वा वृच्छिकं वा, शिरस्योपरि हस्ताभ्यां अंजलिं कुर्यात्। शंकर, शंकर इति उक्त्वा तान् पादाऩ् नमेत् च। सर्वेषां समूहे अस्ति भगवाऩ्। प्रज्ञानं ब्रह्म इति ऋषयः वदन्ति, क्षुद्रा मृत्तिका अपि तदेव इति वदन्ति वेदाः। बहुश्रुतः गुरुः ब्रह्म इति कथयन्ति शिष्ठाः, विद्याहीनः चण्डालः अपि शिव इति घोषयन्ति वेदाः।

यदि प्राणिनः सर्वे ब्रह्म इति वचनं सत्यं अस्ति चेत्, तवान्तिके या भार्या अस्ति, यो शिशुः वर्तते, ते अपि मूर्तिमान् ब्रह्म एव। जीवाः सर्वे ईश्वर एव, न अन्यथा। न केवलं चेतनावन्तः, अपितु सूर्यः चन्द्रः नक्षत्राः मेघाः च विग्रहवान् ईश्वरः। एषा लेखनी भगवान्, एते अक्षराः अपि।